← Read

भक्तामर स्तोत्र

JinShrut

Verse 1 of 4

Verse 1

भक्तामरप्रणतमौलिमणिप्रभाणाम् उद्योतकं दलितपापतमोवितानम् । सम्यक् प्रणम्य जिनपादयुगं युगादौ आलम्बनं भवजले पततां जनानाम् ॥ १ ॥

Verse 2 of 4

Verse 2

यः संस्तुतः सकलवाङ्मयतत्त्वबोधात् उद्भूतबुद्धिपटुभिः सुरलोकनाथैः । स्तोत्रैर्जगत्त्रितयचित्तहरैरुदारैः स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥ २ ॥

Verse 3 of 4

Verse 3

बुद्ध्या विनापि विबुधार्चितपादपीठ स्तोतुं समुद्यतमतिर्विगतत्रपोऽहम् । बालं विहाय जलसंस्थितमिन्दुबिम्बम् अन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥ ३ ॥

Verse 4 of 4

Verse 4

वक्तुं गुणान् गुणसमुद्र शशाङ्ककान्तान् कस्ते क्षमः सुरगुरुप्रतिमोऽपि बुद्ध्या । कल्पान्तकालपवनोद्धतनक्रचक्रं को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥ ४ ॥

1 / 4